एवमवस्थितेऽत्यर्थवत्यनुरागशब्दे प्रथमशब्देन समासः — प्रतमश्चासावनुरागश्च प्रथमानुरागः, प्रथमं वाऽनुरागः प्रथमानुराग इति भावसाधनपक्षे। यथोच्यते— (मामा. ३.११/१२)
तदेवं प्रकृत्या सुकुमारः कदाचिदन्यत्रापरिक्लिष्टपूर्वस्तपस्वी, यतोऽधुनाऽशक्यमनेन मरणमप्यभवितुम् इति।
करणसाधनप्रत्ययोत्पत्तिपक्षे तु प्रथमायामन्यस्यामत्युरागः प्रथमानुरागः, प्रथमे उत्कृष्टेऽद्वितीये वाऽनुरागः प्रथमानुरागः। यथोच्यते—(कासू. ५.१९)
"एक एव सार्ववर्णिको नायकः, प्रच्छन्नश्च द्वितीयो विशेषलाभात्" इति।
सोऽयमनुरागः प्रेमगतेः स्वभावकुटिलत्वात् कुटिलतामालम्बमानो मान इत्युच्यते। का पुनर्माने निरुक्तिः ?
उच्यते। मान पूजायाम् मन ज्ञाने, 'मनु (अव)बोधने' माङ्माने इत्येतेभ्यो भावकरणादिष्वेव घञ्ल्युटोर्मान इति रूपं भवति। तथा हि—
१. मान्यते पूज्यतेऽनेनेति मानं(नः)। यथोच्यते—(गास. ५.६५)
पाअपडणाण मुद्धे! रहसबलामोडिचुंबिअव्वाणं।