(सत्यं जानाति द्रष्टुं सदृशे जने युज्यते रागः।
म्रियतां न त्वां भणिष्यामि मरणमपि श्लाघनीयमस्याः॥)
यदा पुनरनुगतार्थोऽनुना समासस्तदा स्त्रियाः पुरुषेच्छानुवृत्तौ मध्यमः।
स्थाने तपो दुश्चरमेतदर्थमपर्णया कोमलयाऽपि तप्तम्।
या दास्यमप्यस्य लभेत नारी सा स्यात् कृतार्था, किमुताङ्कशय्याम्?॥ ५४॥
पुरुषस्य स्त्रीच्छानुवृत्तौ कनिष्ठः। यथा— (गास. १.८४)
सो तुह कएण सुंदरि! तह झीणो सुमहिलो हलिअउत्तो।
जह से मच्चरिणीएँ वि दोच्चं जाआएँ पडिवण्णं॥ ५५॥
(स तव कृते सुन्दरि! तथा क्षीणः सुमहिलो हालिकपुत्रः।