अभिधात्री श्रुतिः काचिद् विनियोक्त्र्यपरा मता।
विधात्री च तृतीया सा प्रयोगो यन्निबन्धनः॥ ४७॥
स विधिर्लोट्तव्यादिप्रत्ययाभिधेयः पुरुषमिष्टाभ्युपायावच्छिन्नायां भावना— यामप्रवृत्तं प्रवर्तयति, प्रवृत्तं रागतो (निवर्त्तयति)।
अर्थवादः चतुर्धा स्तुतिः, निन्दा, पुराकल्पः, परा/रकृतिरिति। तत्र—
१. विद्यमानाविद्यमानगुणसङ्कीर्तनं स्तुतिः। यथा—(रघु. ६.२२)
कामं नृपाः सन्तु सहस्त्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम्।
नक्षत्रताराग्रहसङ्कुलाऽपि ज्योतिष्मती चन्द्रमसैव रात्रिः॥ ४८॥
२. दोषप्रकाशनं निन्दा यथा—(कुसं. ५.७२)