भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 221 to 230 of 488 verses
असौ विद्याधारश्शिशुरपि विनिर्गत्य भवना— दिहायातः सम्प्रत्यविकलशरच्चन्द्रमधुरः।

यदालोकस्थाने भवति पुरमुन्मादतरलैः कटाक्षैर्नारीणां कुवलयितवातायनमिव॥ ४४॥

यत्र लिङ्गतो विनि(योगविधिः) यथा 'वर्हिर्देवसदनं दामि' इति लिङ्गादनेन मन्त्रेण बर्हींषि लुनीयाः इति।

३. कर्मानुष्ठानपरः प्रयोगविधिः। यथा—(मामा. ६.१५)

पुरश्चक्षूरागस्तदनु मनसो मन्युपरता तनुर्ज्यानिर्यस्य त्वयि समभवद् यत्र च तव।

युवा सोऽयं प्रेयानिह सुवदने! मुञ्च जडतां विधातुर्वैदग्ध्यं विलसतु सकामोऽस्तु मदनः॥ ४५॥

४. नियोज्यविशेषप्रतिपादनापरोऽधिकारविधिर्यथा—(मामा. १.१९)

शरज्ज्योत्स्नाकारं/कान्तं कुमुदमिव तं नन्दयतु सा सुजातं कल्याणी भवतु कृतकृत्यः स च युवा।

वरीयानन्योन्य—प्रगुण—गुण—निर्माण—निपुणो विधातुर्व्यापारः फलतु च मनोज्ञश्च भवतु॥ ४६॥

अधिकृतस्य कर्तृत्वे, कर्तुरधिकारे वा प्रयोगविधेरेव प्राधान्यम्।

Showing 221 to 230 of 488 verses