अह्नाय सा नियमजं क्लममुत्ससर्ज क्लेशः फलेन हि पुनर्नवतां विधत्ते॥ ५१॥
स्त्रिया पश्चादुत्पत्तौ कनिष्ठः। यथा— (गास. ३.४६)
मामि! हिअअं पीअं तेण जुआणेण मज्जमाणाए।
ण्हाणहलिद्दाकडुअं अणुसोत्तजलं पिअंतेण॥ ५२॥
(मातुलानि! हृदयमिव पीतं तेन यूना मज्जन्त्याः।
स्नानहरिद्राकटुकं अनुस्रोतोजलं पिबता॥)
करणसाधनप्रत्ययोत्पत्तिपक्षे तु यदाऽनुरूपो रागः अनुराग इत्यनुरूपार्थेनानुना समासः, तदा तदुद्गतस्य लावण्यादेः प्रसिद्धादेर्वा सिद्धमुत्तमत्वम्।
सच्चं जाणइ दट्ठुं सरिसम्मि जणम्मि जुज्जए राओ।
मरउ, ण तुमं भणिस्सं, मरणं वि सलाहणिज्जं से॥ ५३॥