४. करुणो यथा—(काव्याद. २.२८६)
यस्याः कुसुमशय्याऽपि कोमलाऽस्या रुजाकरी।
साऽधिशेते कथं देवी हुताशनवतीं चिताम्॥ ४१॥
४.१. करुणानन्तरो यथा—(मामा. १०.१५)
भवति विततश्वासोन्नाहप्रणुन्नपयोधरं हृदयमपि च स्निग्धं चक्षुर्निजप्रकृतौ स्थितम्।
वदनमदिकं मूर्च्छाच्छेदात् प्रसादि विराजते परिगतमिव प्रारम्भेऽह्नः श्रिया सरसीरुहम्॥ ४२॥
तेषां समवाये पूर्वः पूर्वो विचित्र इति करुणानन्तरत् प्रवासानन्तरो विचित्रः।
दृष्टिर्वन्दनमालिका, स्तनयुगं लावण्यपूर्णौ घटौ शुभ्राणां प्रकरः स्मितं सुमनसां, वक्त्रप्रभा दर्पणः।
रोमाञ्चोद्गम एष सर्षपकणाः, पाणी तथा पल्लवः स्वाङ्गैरेव गृहं प्रियस्य विशतस्तन्व्या कृतं मङ्गलम्॥ ४३॥