(अवितृष्णप्रेक्षणीयेन तत्क्षणं मातुलानि! तेन दृष्टेन।
स्वप्नपीतेनेव पानीयेन तृष्णैव न भ्रष्टा॥)
१.१. प्रथमानुरागानन्तरो यथा—(कुसं. ८.१)
पाणिपीडनविधेरन्तरं शैलराजदुहितुर्हरं प्रति।
भावसाध्वसपरिग्रहादभूत् कामदोहदमनोहरं वपुः॥ ३६॥
कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतहृद्योऽधररसः।
मुहुर्लग्नः कण्ठे तरलयति बाष्पः स्तनतटीं प्रियो मन्युर्जातस्तव निरनुरोधे ननु वयम्॥ ३७॥
२.१. मानानन्तरो यथा—(उरा. १. १)
पौलस्त्यपीनमुजसम्पदुदस्यमानकैलाससम्भ्रमविलोलदृशः प्रियायाः।