सेहालिआण गंधो ण देइ सोत्तुं, सुअह तुम्हे॥ ३९॥
(स्वप तृतीयोऽपि गतो याम इति सख्यः! कस्मान्मां भणथ?।
शेफालिकानां गन्धो न ददाति स्वप्तुं, स्वपत यूयम्॥)
२.१२. (ङ) हेमन्तचर्याविषयो यथा—(गास. ७७४वे.)
हेमंते हिमरअधूसरस्स ओ असरणस्स पहिअस्स।
सुमरिअ—जाआ—मुह—सिज्जिरस्स सीअं चिअ पणट्ठंय़॥ ३२॥
(हेमन्ते हिमरजोधूसरस्य अहो अशरणस्य/ अप्रावरणस्य पथिकस्य।
स्मृतजायामुखस्वेदशीलस्य शीतमेव प्रनष्टम्॥)
२.१२. (च) शिशिरचर्याविषयो यथा—(गास. ९.२५वे.)
चरलच्छि! चंदवअणे! पीणत्थणि! करिकरोरु! तणुमज्झे!।