विसंवादनमपि व्याविद्धं; यथा—(अमरु. ७६)
आदृष्टिप्रसरात् प्रियस्य पदवीमालोक्य निर्विण्णया विश्रान्तेषु पथिष्वहःपरिणतौ ध्वान्ते समुत्सर्पति।
दत्त्वैकं सशुचा गृहं प्रति पदं पान्थस्त्रियाऽस्मिन् क्षणे मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम्॥ ४५॥
करुणे कालहरणमप्यविरुद्धं ; यथा—(कुसं. ४.४६)
अथ मदनवधूरुप्लवान्तं व्यसनकृशा प्रतिपालयाञ्चकार।
शशिन इव दिवातनस्य रेखा किरणपरिक्षयधूसरा प्रदोषम्॥ ४६॥
विसंवादनमपि विविधं, यथा—(सक. ५.४३०)
ततः कैरप्युक्ते परिणयविधौ काष्ठमुनिभिः पुराणैरातङ्कग्लपितहृदयेन क्षितिभृता।
विना वाचा नैतत् क्षममिति विधायाननमधः पतद्बाष्पाम्भोभिर्लिखितमिव दत्तं प्रतिवचः॥ ४७॥
एवमन्येऽपि प्रकृत्यर्थोपसर्गार्थानां व्यवस्थासम्प्लवाः संदृश्यन्ते।