भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 191 to 200 of 481 verses
(रागानुरागयोः प्रकृतिप्रत्ययविवेचनम्)

अत्रोच्यते। संज्ञाशब्दानां यथाकथञ्चिद् व्युत्पत्तिदर्शने रूढिर्विषयमपहरति। तेन व्युत्पत्ति ॰ ॰ ॰ ॰ ॰(नि)यमो नोपपद्यते। स तत्रैव व्यवह्रियते। न चासावन्यत्र नास्ति। न चान्ये तत्र न सन्ति। तद् यथा—पङ्केरुहं सरसिजमिति। न हि ततः पङ्कं एव केवले रोहति, अपि तु सजले। न केवलं सरस्येव जायते, अपि तु वाप्यामपि। न च पङ्के पयसि सरसि वा पङ्कजमेव केवलम, अपि तु कशेरुक—मकर—मत्स्य— मुस्तादि अपीति। तद्वदिहापि द्रष्टव्यम्॥

किञ्च, यद्यपि प्रतिश्रुत्यादानमित्यादयोऽर्था मानादिष्वपि संभवन्ति, तथाऽपि यथा प्रथमानुरागे, प्रतिश्रुत्यादानं वैविध्यं च संविधानकेषु निरूप्यते, नैवमन्येषु। यद्यपि च विसंवादनादयोऽपि विरोधादिसहकृतास्तत्र विद्यन्ते, तथाऽपि यथा प्रितश्रुत्यादानं वैविध्यं च, नैवमेते ॰ ॰ ॰ ॰ णेत्यभिप्रायेणोक्तम् 'प्रतिश्रुत्यादानमित्ययं प्रकृत्यर्थः, विविधमित्ययं चोपसर्गार्थः प्रथमानुरागे घटते' इति॥

एतेन मानादिष्वपि विप्रलम्भशब्दस्य यथोक्तनिरुक्तयो व्याख्याताः।

कः प्रथमानुरागादिसंज्ञादीनामन्वर्थतायां प्रकृत्युपसर्गार्थप्रत्ययार्थविभागः?।

उच्यते। 'रञ्ज रागे' इत्यस्मात् 'राजृ दीप्‍तौ' इत्येतस्माद् वा भावकरणयोर्घञि राग इति रूपं भवति। ततश्च

१. अनुगतोऽनुरूपो वा रागः अनुरागः इति करणसाधनप्रत्ययोत्पत्तिपक्षेऽनुना समासः।

२. अनु=पश्चात् सह वा रागः अनुरागः इति भावसाधनप्रत्ययोत्पत्तिपक्षेऽनुना समासः। रञ्जयतिश्चेहानुषक्तिवचनो वर्णान्तरापत्तिवचनश्च गृह्यते। यथा अनुरक्तो भोजने, कषायेण रक्तं वस्त्रम् (काशिका ४.२.१) इति।

कथं तर्हि रक्तो वर्णः, पार्थिवं रज इति ?।

उपचाराद् रक्त इव रक्तः। तत्र प्राधान्येन कुसुम्भलाक्षादिना च रक्तं रक्तमुच्यते। यथा— 'रक्तं वस्त्रमविधवा स्त्री धारयेत्' (काशिका ४.२.१) इति; तद्वत् स्वभावतोऽपि यो भवेत् सोऽपि रक्त इत्युच्यते। यथा क/काषायो /यौ गर्दभस्य कर्णौ, हारिद्रौ कुक्कुटस्य पादौ' (काशिका ४.२.१) इति।

Showing 191 to 200 of 481 verses