(यद् यस्यास्ति/भवति सारं तद् स ददाति इति किमत्राश्चार्यम्।
अभवदपि दत्तं। दौर्भाग्यं तया सपत्नीनाम्॥)
५. सम्बन्धाभावः, चैत्रो गृहे नास्तीति। स यथा—(शाकु. १.२६)
मानुषीषु कथं वा स्यादस्य रूपस्य सम्भवः।
न प्रभातरलं ज्योतिरुदेति वसुधातलात्॥ ३९॥
६. सर्वाभावः, तस्य नामापि नास्तीति। य यथा—
गामा पएससेसा णु रण्ण सेसा कुडुंगपरिवाडा।
देहा वि जीअसेसा पेम्मस्स ण अत्थि सेसं वि॥ ४०॥
(ग्रामाः प्रदेशशेषाः सुमरणशेषाः लतागृहपरिवाडाः।
वयमपि जीवशेषाः प्रेम्णो नास्ति शेषमपि॥)