तावदेव थूथूकारितानि मदनेन अङ्गानि॥)
२. प्रध्वंसाभावः, क्षीरं दध्नि नास्तीति। स यथा—
स्वस्ति सुखेभ्यः सम्प्रति तिलाञ्जलिरेष मन्मथकथायाः।
तता अपि मामतिवयसं तरलदृशः तरलमीक्षन्ते॥ ३६॥
३. इतरेतराभावः, स्तम्भः कुड्यो न भवतीति। स यथा—(काव्याद. २.३२५)
न देवकन्यका नापि गन्धर्वकुलसम्भवा।
तथाऽप्येषा तपोभङ्गं विधातुं वेधसोऽप्यलम्॥३७॥
४. अत्यन्ताभावः, शशविषाणं नास्तीति। स यथा—(गास. ३.१२)
जं जस्स अत्थि/होइ सारं तं सो देइ त्ति किंत्थ अच्चरिअं।
अणहोंता अंपि दिण्णं दोहग्गं तइ सवंत्तीणं॥ ३८॥