भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 171 to 180 of 488 verses
तथा च व्यापारः कमलनयनाया नयनयो— स्त्वयि व्यक्तः स्नेहस्तिमित—रमणीयश्चिरमभूत्॥ ३३॥

६. अन्यथाव्यवसितपदार्थतथात्वदर्शनात् प्रागुपलब्धेऽपि तदात्वसम्भावना प्रत्यनुसन्धिः। योऽपि कपोलपाण्डुतादिसूचितः तस्याः स्मराभिष्वङ्गः, सोऽपि त्वन्निबन्धन इति। स यथा—

मा भैः शशाङ्क! मम शीधुनि नास्ति राहुः खे रोहिणी कथय कातर! किं बिभेषि।

प्रायो विदग्धवनितानवसङ्गमेषु पुंसां मनः प्रचलतीति किमत्र चित्रम्॥ ३४॥

(१.६. अभावानुरागः —६)

प्रमाणसप्‍तकव्यापारातीतप्रमेयग्राहकं प्रमाणम् अभावः। स त्वेकोऽपि प्रमेयोपाधिभेदाद् विभिद्यमानः षोढा सम्भवति—'प्रागभावः, प्रध्वंसाभावः, इतरेतराभावोऽत्यन्ताभावः, सम्बन्धाभावः, सर्वाभाव' इति। तत्र

१. प्रागभावः—क्षीरे दधि नास्तीति। स यथा—(९४७)

जाव ण उट्ठंति च्चिअ थणआ से दुद्धगंधिअमुहीए।

ताव च्चिअ धुधुक्कारिआइ मअणेण अंगाइ॥ ३५॥

(यावन्न उत्तिष्ठेते स्तनकौ दुग्धगन्धिकमुख्याः।

Showing 171 to 180 of 488 verses