सम्भावनाज्ञानं सम्भवः, सोऽपि षट्प्रकार एव— 'सम्भावना—संशय—वितर्क— प्रायोवाद—सम्प्रत्यय—प्रत्यनुसन्धिभेदात्'। तत्र—
१. प्रबलकारणकलापादर्शनात् कार्योत्पत्तिसम्प्रधारणं सम्भावना, मेघोदयाद् वृष्टिरिति।
मा मुद्धपो उच्छोडअ बालाए इमिए हरिससुअपरिल्लं।
विणिअंपणदंसणकोउहलग्गहिओ हहिओ गहिल्लि॥ २९॥
२. समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः (न्यायसू. १.१.२३)— स्थाणुर्वा पुरुषो वेत्यादि। यथा—(उदात्तरा. २.१२)
किं रूपं स्फुटमेव सा शशिमुखी धत्ते तदत्यद्भतं मामुत्साहयितुं परापकरणे चित्तं नु किं नः स्वसुः।
इत्यन्तर्विकसद्वितर्कविधुरं चेतस्तथा जायते स्वल्पोऽप्येष मम प्रयाति पुरतः पन्था यथा दीर्घताम्॥ ३०॥
॰ ॰ अंशावलम्बी प्रत्ययः सन्देहः। इहापि पाक्षिकी सम्भावनास्त्येव। सा प्रवृत्तिहेतुः। तथा ह्यनिश्चितेऽपि प्रतिबन्धकाभावे सुखसाधनं ज्ञानं प्रमाणमेवेति।
३. अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहो वितर्कः (न्यायसू. १.१.४०)—