विरुद्धं यथा—(मामा. ९.१२, उराच. ३.२१)
दलति हृदयं गाढोद्वेगाद्, द्विधा तु न भिद्यते वहति विकलः कायो मोहं, न मुञ्चति चेतनाम्।
ज्वलयति तनूमन्तर्दाहः, करोति न भस्मसात् प्रहरति विधिर्मर्मच्छेदी, न कृन्तति जीवितम्॥ ३५॥
तत्रैव कालयापनमव्याविद्धम्; यथा—(रघु. ८.९२)
तेनाष्टौ परिगमिताः समाः कथञ्चिद् बालत्वादवितथसूनृतेन सूनोः।
सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्नेषु क्षणिकसमागमोत्सवैश्च॥ ३६॥
व्याविद्धं यथा—(उराच. ३.३३)
देव्या शून्यस्य जगतो द्वादशः परिवत्सरः।
प्रणष्टमिव नामापि न च रामो न जीवति॥ ३७॥
तत्रैव प्रत्यादानमप्रतिषिद्धम्; यथा—(कुसं. ३.७३)