(करुणे प्रतिश्रुत्यादानादयः)
तथा करुणे प्रतिश्रुत्यादानं विविधं; यथा—(कुसं. ४.२)
अवधानपरे चकार सा प्रलयान्तोन्मिषिते विलोचने।
न विवेद तयोरतृप्तयोः प्रियमत्यन्तविलुप्तदर्शनम्॥ ३२॥
हृदये वससीति मत्प्रियं यदवोचः॥ ३३॥
तत्रैव विसंवादनमविरुद्धं; यथा—(कुसं. ४.७)
उपमानमभूद् विलासिनां करणं यत् तव कान्तिमत्तया।
तदिदं गतमीदृशीं दशां न विदीर्ये कठिनाः खलु स्त्रियः॥ ३४॥