विरुद्धं यथा—(काव्याद. २.१३३)
दूरे प्रियतमः सोऽयमागतो जलदागमः।
दृष्टाश्च फुल्ला निचुला न मृताऽस्मीति किंन्विदम्?॥ २७॥
तत्रैव कालहरणमव्याविद्धं; यथा—(अमरु. १२)
प्रहरविरतौ मध्ये वाऽह्नस्ततोऽपि परेऽथ वा किमुत सकले यातेऽप्यह्नि प्रिय! त्वमिहैष्यसि।
इति दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालाऽऽलापैः सबाष्पझलज्झलैः॥ २८॥
व्याविद्धं यथा—(गास. ८४७वे.)
चिरजीवित्तणकिंखिरि! मा तम्म रसाअणेहि अथिरेहि।
विरहं पवज्ज, जाअंति जेण जुअ—दीहरा दिअहा॥ २९॥