भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 121 to 130 of 488 verses
अत्र गृहे हालिकवधूरेतावन्मात्रस्तनी वसति॥)

तत्र प्रत्यक्षागमावेवोपमानमिति काणादकपिञ्जलपातञ्जलाः। तथाहि। यथा गौस्तथा गवय इति, अयं स गोसदृशो गवय इति। नात्र गवानुभवोपदेशस्मरणगवय— दर्शनानामतिरिक्तं स्फुरति यत्प्रसिद्धे तुरीयं प्रमाणमङ्गीकुर्मः।

यच्च कैश्चिदुक्तम् — अनेन सदृशी मदीया गौरित्येतदुपमानं, तदपि सादृश्योद्‍बोधितस्मृतिबीजप्रभवगवानुभवस्मरणतो नातिरिच्यते इति।

अत्रोच्यते। उक्तमेवास्माभिः। किं तदिति चेदविज्ञातस्वरूपस्य वस्तुनः साधर्म्यादिभिरुपदेशादिसव्यपेक्षैः साक्षात्करणमुपमानमिति। उपदेशादयः पुनरुभयजन्यज्ञाने चक्षुरादय इव तत्सहकारिणः, न तद्‍व्यपदेशहारिणः। तथा चेन्द्रियार्थसन्निकर्षोत्पन्नत्वेऽपि उभयजन्यव्यपदेश्यपदेन व्यवच्छिन्नम् अक्षपादपादैः।

किञ्चान्यत्; आस्तामस्थानिकी महत्येषा कथा। परीक्षकाणां हि प्रायेणोपमानमेव प्रमाणं, प्रत्यक्षादीनि पुनरुपमायामेवान्तर्भवन्ति। तथाहि। व्यवहारोपयोगि प्रमाणं सविकल्पकज्ञानपूर्वं, सविकल्पकं शाब्दम्; शब्दस्य च सम्बन्धग्रहणसमयेऽर्थ— प्रतिपादकम्। तदुत्तरकालं तु तत्सादृश्येन अवबोधकत्वात् कथं न प्रत्यक्षमुपमानम्। आह च विन्ध्यवासी—'शब्दस्य सामान्यं वाच्यम्। तच्च सादृश्यरूपम्' इति। सामान्यं च पूर्वव्यक्त्यवच्छिन्नमपूर्वव्यक्तौ प्रतीयमानम्; तदुक्तम् 'सादृश्यम्, तच्चोपमानमेव भवति। प्रत्यक्षस्य चोपमानान्तर्भावे प्रागेवानुमानमुपमानं यथा तथेति व्यपदेशात् ॰ ॰ ॰ ॰ स्वार्थानुमाने लिङ्गमधिगतलिङ्गिनोऽधिगमहेतुः। तदधिगमश्च प्रत्यक्षादिपूर्वक' इति। यथा तथेति च व्यपदेशात् परार्थानुमाने चोक्तमनुभाष्यकारैः 'तदागमः, प्रतिज्ञा, हेतुः, अनुमानं, दृष्टान्तः, प्रत्यक्षम्, उपमानम्, उपनय' इति। शाब्दं तु साक्षा ॰ ॰ ॰ पमानमेवेदं तदित्यादिव्यपदेशात्। एतेनार्थापत्तिसम्भवाभावा अपि तत्प्रसिद्धयैव व्याख्याताः। तैर्हि तेऽनुमानैरन्तर्भाविता' इति। ऐतिह्यं तु शाब्दविशेषण एव। तस्मात् सर्वं प्रमाणमुपमानम्।

यद्येवमुपमानमेवास्तु, किं प्रत्यक्षादिभिरिति।

अत्रोच्यते— गतानुगतिकन्यायोऽविचारितरमणीयः संसारव्यवहार इव विचारं न क्षमते।

तथाहि—भगवता अक्षपादेन प्रमाणप्रमेयान्तर्भूता अपि संशयादयश्चतुर्दश पृथदुक्ताः। निग्रहस्थानान्तर्भावेऽपि हेत्वाभासच्छलत्रयजातिनिग्रहस्थानानां पृथक्प्रस्थान— मभिहितम्। असिद्धानैकान्तिकान्तर्गता अपि विरुद्धादयो हेत्वाभासाः पञ्चहेतूनुपादाय चतुष्षट्केण त्रिंशता षोडशकत्रयेण च द्वे सहस्त्रे द्वात्रिंशके इति वर्णिताः।

एवं धर्मकीर्तिनापि स्वभावानुपलब्धिरिति वक्‍तव्ये स्वभावानुपलब्धिः, कार्यानुपलब्धिः, कारणानुपलब्धिः, व्यापकानुपलब्धिः, स्वभावविरुद्धोपलब्धिः, कार्यविरुद्धोपलब्धिः, कारणविरुद्धोपलब्धिः, विरुद्धव्याप्‍तोपलाब्धिः, विरुद्धकारणोपलब्धिः, विरुद्धकार्योपलब्धिः, कारणविरुद्धकार्योपलब्धिरित्येकादशानुपलब्धयो विकल्पिताः। लोकेऽपि दृश्यते ब्राह्मणा आयाता वसिष्ठश्चायात इति। तद्वदुपमानान्तर्गतत्वेऽपि प्रत्यक्षादिप्रमाणवर्णनमिति।

(१.४ अर्थापत्त्यनुरागः —६)

Showing 121 to 130 of 488 verses