अतिशयपरितापम्लापिताभ्यां यथास्याः स्तनयुगपरिणाहं मण्डलाभ्यां ब्रवीति॥ २६॥
'जनः पुण्यैर्यायाज्जलधिजलभावम्'॥ २७॥
६. अभावपूर्विका यथा—(गास. ४.१८)
अह सा तहिं तहिं चिअ वाणीरवणंमि चुक्कसंकेआ।
तुह दंसणं विमग्गइ पम्हुट्ठणिहाणठाणं व्व॥ २८॥
(अथ सा तत्र तत्रैव वानीरवने च्युतसङ्केता।
तव दर्शनं विमार्गते प्रस्मृतनिधानस्थानमिव॥)