दृष्टः श्रुतो वान्यथा नोपपद्यत इत्यर्थान्तरपरिकल्पना अर्थापत्तिः। सापि षट्प्रमाणपूर्वकत्वात् षट्प्रकारा दृष्टार्थापत्तिः १. प्रत्यक्षपूर्विका, २. अनुमानपूर्विका, ३. उपमानपूर्विका, ४. शब्द(सम्भव)पूर्विका, ५. अर्थापत्तिपूर्विका, ५. अभावपूर्विका चेति। श्रुतार्थापत्तीस्तु श्रावणषट्के वक्ष्यामः। सानुमानतः सामग्रीभेदाद् भिद्यते। तथाहि— पक्षे वृत्तिः, सपक्षवत्त्व/वृत्तिः विपक्षावृत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वं चानुमानलक्षणम्। अर्थापत्तौ पक्षधर्मत्वाद्यनपेक्षस्तथानुपपद्यमानोऽर्थः स्वसिद्धयर्थमर्थान्तरं कल्पयति। तत्र दृष्टार्थापत्तिः —
१. प्रत्यक्षपूर्विका यथा—(मामा. १.२६)
'सन्तापसन्ततिमहाव्यसनाय तस्यामासक्तम्'॥ २३॥ (पृ.११०४) इत्यादि।
२. अनूमानपूर्विका यथा—(मामा. ५.२०)
'नादस्तावद्विकलकुररीकूजितस्निग्धतारश्चित्ताकर्षी'॥ २४॥(पृ.१०४२)इत्यादि।
शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत् तपः।
तरुणि! येन तवाधरपाटलं दशति बिम्बफलं शुकशाबकः॥ २५॥
४. अर्थापत्तिपूर्विका यथा—(रत्ना. २.१४)
स्थितमुरसि विशालं पद्मिनीपत्रमेतत् कथयति न तथान्तर्मन्मथोत्थामवस्थाम्।