(चिरजीवित्वकाङ्क्षिणि ! मा ताम्य रसायनैरस्थिरैः।
विरहं प्रपद्यस्व जायन्ते येन युगदीर्घा दिवसाः॥)
ततैव प्रत्यादानमप्रतिषिद्धं यथा—
उअ हुज्जंति पिउच्छा जाइ पिअसंगमम्मि सोक्खाइँ।
ताइँ विरहेण पिसुणेण धुग्गलिआइ कीरंति॥ ३०॥
(पश्य भविष्यन्ति पितृष्वसो यानि प्रियसङ्गमे सौख्यानि।
तानि विरहेण पिशुनेन गालितानि क्रियन्ते॥)
मुग्धे! प्रेषय यामि यान्ति पथिकाः कालोऽवधिः कथ्यता— मुद्विग्ना किमकाण्ड एव भवती तूष्णीं किमेवं स्थिता?।
पूर्वोक्तोपरतां प्रियेण दयितामाश्लिष्य तत्तत्कृतं दत्तो येन समस्तपान्थ—निवह—प्राणान्तको डिण्डिमः॥ ३१॥