भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 111 to 120 of 481 verses
(प्रवासे प्रतिश्रुत्यादानादयः)

अथ प्रवासेऽपि प्रतिश्रुत्यादानं विविधं; यथा—(मवीच. ५.२८)

प्रिये! हाहा क्‍वासि प्रकिर मधुरां वाचमधुना पराभूतैरित्थं विलपनविनोदोऽप्यसुलभः।

अनिन्द्यः पौलस्त्यो व्रजतु परिवादो मयि जरां यतो रूढे वैरे बहुगुणमनेन प्रतिकृतम्॥ २४॥

विविधं यथा—

कृतकरुचि/दितैर्बाष्पाम्भोभिः सदैन्यविलोकितै— र्वनमसि गता यस्य प्रीत्या तथाऽपि धृताऽम्बया।

नवजलधरश्यामाः पश्यन् दिशो भवतीं विना कठिनहृदयो जीवत्येव प्रिये! स तव प्रियः॥ २५॥

तत्रैव विसंवादनमविरुद्धं; यथा—(सूमु. २४)

तन्वङ्ग्यास्त्वमिति प्रसादविशदं, नास्तीति खेदालसं चक्षुर्द्वारपथावतारिणि जने व्यापारयन्त्या मुहुः।

हर्षार्तिप्रभवाः प्रतिक्षणभवस्वेदाम्बुदाहज्वरे बाष्पाम्भःकणिकाः पयोधरतटे पुष्यन्ति शुष्यन्ति च॥ २६॥

Showing 111 to 120 of 481 verses