भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 101 to 110 of 481 verses
तत्रैव कालहरणं व्याविद्धम्; यथा—(अमरु. ४९)

दूरादुत्सुकमागते विल/कसितं, सम्भाषिणि स्फारितं संश्लिष्यत्यरुणं, गृहीतवसने कोपाञ्चितभ्रूलतम्।

मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णं क्षणा— च्‍चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥ २०॥

व्याविद्धं यथा—

कृशप्राया रात्रिः कृशतनु! शनैर्येन विनम— त्प्रदीपोऽयं निद्रावशमुपगतो घूर्णत इव।

प्रणामान्तो मानस्त्यजसि न तथाऽपि क्रुधमहो! कुचप्रत्यासत्त्या हृदयमपि ते चण्डि! कठिनम्॥ २१॥

तत्रैव प्रत्यादानमपि प्रतिषिद्धं ; यथा—(अमरु. ३८)

कोपो यत्र भ्रुकुटिरचना विग्रहः॥ २२॥ इत्यादि

विप्रतिषिद्धं यथा—(अमरु. ६०)

लाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रा गले॥ २३॥ इत्यादि

Showing 101 to 110 of 481 verses