मालत्याः प्रथमावलोकदिवसादारभ्य विस्तारिणो भूयः स्नेहविचेष्टितैर्मृगदृशा नीतस्य कोटिं पराम्।
अद्यान्तः खलु सर्वथाऽस्य मदनायासस्य मे सर्वतः कल्याणं विदधातु वा भगवती नीतिर्विपर्येतु वा॥ १३॥
तत्रैव प्रत्यादानमपि प्रतिषिद्धमपि यथा—(मामा. १.२२)
यद् विस्मयस्तिमितमस्तमितान्यभावमानन्दमन्दममृतप्लवनादिवासीत्।
तत्सन्निधौ तदधुना हृदयं मदीयमङ्गारचुम्बितमिव व्यथमानमास्ते॥ १४॥
विप्रतिषिद्धोऽपि यथा—(कादकसा. ४.१११)
गत्वा तमहमद्राक्षं तत्क्षणोत्क्रान्तजीवितम्।
चिरात् त्वमागताऽसीति रुषित्वेवमवस्थितम्॥ १५॥
(माने प्रतिश्रुत्यादानादयः)
एवं मानेऽपि प्रतिश्रुत्यादाने विविधं यथा—(अमरु. ८१)