घेत्तुं मुच्चइ अहरो अण्णत्तो वलइ पोच्छिउं दिट्ठी।
घडिउं विहडंति भुआ रअम्मि सुरआअ वीसासो॥ १०॥
(ग्रहीतुं मुच्यते अधरः अन्यत्रोद्वलति प्रेक्षितुं दृष्टिः।
घटितुं विघटेते भुजौ रते सुरताय विश्वासः॥)
१.११. सर्वकालविषयेषु प्रभातविषयो यथा—(किराता. ९.७५)
निद्राविनोदितनितान्तरतक्लमानामायामिमङ्गलनिनादविबोधितानाम्।
रामासु भाविविरहाकुलितासु यूनां तत्पूर्वतामिव समादधिरे रतानिन॥ ११॥
१. १२ (क) सर्वर्तुचर्याविषयेषु वसन्तचर्याविषयो यथा—(गास. ६.४५)
दइअ—कअग्गह—लुलिओ धम्मिल्लो सीहुगंधिअं वअणं।