पज्जत्तंमि वि सुरए विअलिअबंधं अ संजमंतीए।
विब्भमहसिएहि कओ पुणो वि मअणाउरो दइओ॥ ६॥
(पर्याप्तेऽपि सुरते विगलितबन्धं च संयमयन्त्याः।
विभ्रमहसितैः कृतः पुनरपि मदनातुरो दयितः॥)
१.७. मुग्धाविषयो यथा—(सक. ३.५७, ५. २२४)
पोढमहिलाण जं जं सुसिक्खिअं तं रए सुहावेइ।
जं जं असिक्खिअं णववहूणं तं तं रइं देइ॥ ७॥
(प्रौढमहिलानां यधत् सुशिक्षितं तद् रते सुखयति।
यधदशिक्षितं नववधुनां ततद् धृतिं ददाति॥)