गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ।
करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम्?॥ ८॥
उपसर्गार्थो यथा—(रघु. ८.६६)
धृतिरस्तमिता रतिश्च्युता गलितं गेयमृतुर्निरुत्सवः।
गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे॥ ९॥
ननु च प्रतिश्रुत्याऽदानादयश्चत्वारोऽपि प्रकृत्यर्थाः, विविधमित्यादयश्चत्वारोऽपि च उपसर्गार्थाः प्रथमानुरागादिषु चतुर्ष्वपि व्यवस्थासम्प्लवाभ्यामुपलभ्यन्ते।
उच्यते प्रतिश्रुत्याऽदानमित्यादयो यथायथमुपसर्गा अविशिष्टाः प्रथमानुरागादिषु व्यवतिष्ठन्ते, इति। तथाहि—
(प्रथमानुरागे प्रतिश्रुत्यादानादयः)