शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ॥ ५॥ इत्यादि।
उपसर्गार्थो यथा—(मेघ. १०३)
त्वामालिख्य प्रणयकुपितां धातुरागैश्शिलायाम्॥ ६॥ इत्यादि।
प्रत्यादानमित्ययं प्रकृत्यर्थो विप्रतिषिद्धमित्ययं चोपसर्गार्थः करुणे सम्बध्यते। तत्र दैवमेवेष्टसङ्गमादिमाच्छिनत्ति॥
सुहृदिव प्रकटय्य सुखप्रदां प्रथममेकरसामनुकूलताम्।
पुनरकाण्डविवर्तनदारुणः परिशिनष्टि विधिर्मनसो रुजम्॥ ७॥
तच्च कस्यचिदपि कदाचिदपि मा भूयादिति विशेषेण प्रतिषिध्यमानं विप्रतिषिद्धमेव भवति॥ तत्र—
प्रकृत्यर्थो यथा—(रघु. ८.६७)