जहपडिवण्णु प्पेक्खा णिसवण्णरूअं पि अंतेइ/मंतेइ?॥ ५॥
(अथ सा हृदयेन हरिं च दृष्ट्वा आरोप्य विलासमपि।
यथाप्रतिपन्नोत्प्रेक्षा निषण्णरूपमपि मन्यते॥)
५. प्रमाणानुभूतस्य वस्तुनो मनसि प्रतिबिम्बनं स्मृतिः; यथा—(गास. ६.३०)
जं जं पुलएमि दिसं पुरओ लिहिओ व्व दीससे तत्तो।
तुह पडिमाडिवाडिं पवहइ व सअलं दिसावलअं॥ ६॥
(यां यां प्रलोकयामि दिशं पुरतो लिखित इव दृश्यसे तत्र।
तव प्रतिमापरिपाटीं वहतीव सकलं दिशावलयम्॥
६. अविषयेन्द्रियव्यापारमिन्द्रियेणेव विषयेषु यदनुभवं मानसं स स्वप्न। यथा—