वयं तु लिङ्गमात्रमेव ब्रूमः। तदाभासस्यापि प्रथमानुरागनिमित्तत्वात्।
१. सामान्यतो दृष्टं, २. विशेषतो दृष्टं, ३. प्रत्यक्षतो दृष्टं
४. परोक्षतो दृष्टं, ५. विद्यमानविषयम् ६. अविद्यमानविषयं च।
यथा— कार्येण कारणं, स्वरेण पुत्रम्, कृत्तिकोदयेन रोहिण्युदयम्, ॰ ॰ ॰ देशान्तरप्राप्त्या आदित्यगतिं, धूमेनाग्नि, निमित्तेन भाविनमर्थं जानाति। तत्र—
१. सामान्येन (गृहीत)व्याप्तिकं सामान्यतो दृष्टम्, यथा—शाकु. ३.१२
'उन्नमितैकभ्रूलतमाननमस्याः'॥ १०॥
२. विशेषेण गृहीतव्याप्तिकं विशेषतो दृष्टम् ; यथा—(शाकु. ३.७)
अभ्युन्नता पुरस्तादवगाढा जघनगौरवात् पश्चात्।