६. अनागतवस्तुगोचरमविद्यमानविषयं; यथा—(शाकु. १.१५)
'शान्तमिदमाश्रमपदं स्फुरति च'॥१५॥
तदेतत् षड्विधमपि स्वार्थानुमानम्। परार्थानुमानं श्रावणप्रमाणषट्के वक्ष्यामः।
अविज्ञातस्वरूपस्य वस्तुनः साधर्म्यादिभिरुपदेशादिसव्यपेक्षैः साक्षात्करण— मुपमानम्। उक्तं च— 'प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम्' (न्यायसू. १.१.६)। उपमानमपि सादृश्यादसन्निकृष्टेऽर्थे बुद्धिं जनयतीति।
तदपि षोढैव १. साधर्म्योपमानम्, २. वैधर्म्योपमानम्, ३. मुद्रोपमानम्, ४. शिल्पोपमानम्, ५. संज्ञोपमानम्, ६. अभिनयोपमानमिति।
संज्ञासाधर्म्यवैधर्म्यमुद्राशिल्पाभिनीतिभिः।
ब्रूते यद् वस्तुनो रूपमुपमानं तदुच्यते॥ १६॥
१. तत्र साधर्म्योपमानं यथा—(बारा. १.४०)