कपोले पत्राली करतलनिरोधेन मृदिता॥ १६॥ इत्यादि
कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः शिरस्याज्ञा न्यस्ता प्रतिवचनमप्यानतिमति।
न दृष्टेः शैथिल्यं मिलन इति सन्तापयति मां निगूढान्तःकोपा कठिनहृदये संवृतिरियम्॥ १७॥
तत्रैव विसंवादनमविरुद्धं; यथा—
त्वया क्षान्तं क्षान्तं कुरु मुखमितो मां प्रतिकृतिः निधेहीमं पृष्ठे मम करमपक्रान्तनिहितः।
सखीनां निर्बन्धान्मम च धृतपाणेः प्रणमतः प्रिये काकुप्रीतेस्तव परमगूढं मयि रुषः॥ १८॥
अनालोच्य प्रेम्णः परिणतिमनापृच्छ्य सुहृद— स्त्वया दर्पान्मानः किमिति सरले! प्रेयसि कृतः।
समाकृष्टा ह्येते विरहदहनोद्भासुर—शिखाः स्वहस्तेनाङ्गारास्तदलमधुनाऽरण्यरुदितैः ॥ १९॥