सअणम्मि एत्तिअं चिअ पसाहणं सहइ तरुणीणं॥ १२॥
(दयितकचग्रहलुलितो धम्मिल्लः शीधुगन्धि वदनम्।
शयन एतावदेव प्रसाधनं सहते तरुणीनाम्॥)
१.१२. (ख) ग्रीष्मविषयो यथा—
दइअस्स गिम्हवम्महसंदावे दो वि झति अवणेइ।
मज्जणजलद्दचंदणसिसिरा आलिंगणेण वहू॥ १३॥
(दयितस्य ग्रीष्ममन्मथसन्तापौ द्वावपि झटित्यपनयति।
मज्जनजलार्द्रचन्दनशिशिरा आलिङ्गनेन वधूः॥)
१.१२. (ग) वर्षर्तुविषयो यथा—
धारानिपातरवबोधितपञ्जरस्थदात्यूहडम्बरकरम्बितकण्ठकूजाः।