अट्टेषु काण्डपटवारितशीकरेषु धन्याः पिबन्ति मुखातामरसं तरुण्याः॥ १४॥
१.१२. (घ) शरच्चर्याविषयो यथा—
कलहोउज्जलगोरं कलहोअसिआसु सरअराईसु।
चुंबंति विअसिअच्छं विअद्धजुवईमुहं धण्णा॥ १५॥
(कलधौतोज्ज्वलगौरं कलधौतसितासु शरदरात्रिषु।
चुम्बन्ति विकसिताक्षं विदग्धयुवतीमुखं धन्याः॥)
१.१२. (ङ) हेमन्तविषयो यथा—(गारको. ६७२)
हेमंते दढ—पीलण—थणपुड—संकंतकुंकुम—प्फंसो।
मिहुणाण गलइ सेओ रुहिरुग्गारो व्व सीअस्स॥ १६॥
(हेमन्ते दृढपीडनस्तनपुटसङ्क्रान्तकुङ्कुमस्पर्शः।