मिथुनानां गलति स्वेदो रुधिरोद्रार इव शीतस्य॥)
१.१२ (च) शिशिरचर्याविषयो यथा—(गास. ७७२वे.)
किं तस्स पावरेएणं? किमग्गिणा? किं व गब्बघरएण?।
जस्स उरम्मि णिसम्मइ उम्हाअंतत्थणी जाआ॥ १७॥
(किं तस्य प्रावारेण? किमग्निना ? किं वा गर्भगृहेण?।
यस्योरसि निषीदति ऊष्मायमाणस्तनी जाया॥)
१.१२. (छ) आदिग्रहणात् प्रकीर्णाविषयो यथा—(सूमु. ६)
मधु च विकसितोत्पलावतंसं शशिकरपल्लवितं च सौधपृष्ठम्।
मदनजनितविभ्रमा च कान्ता सुखमिदमर्थवतां विभूतयोऽन्याः॥ १८॥