द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्दश्यतेऽभिनवा॥ ११॥
३. प्रत्यक्षेण गृहीतव्याप्तिकं प्रत्यक्षतो दृष्टम् ; यथा—(मामा. ३.४)
आविर्भवन्ती प्रथमं प्रियायाः सोच्छ्वासमन्तःकरणं करोति।
सन्तापदग्धस्य शिखण्डियूनोर्दृष्टेः पुरस्तादचिरप्रभेव॥ १२॥
४. परोक्षेण गृहीतव्याप्तिकं परोक्षतो दृष्टम्; यथा—(सक. २.२८)
एतानि निस्सहतनोरसमञ्जसानि शून्यं मनः पिशुनयन्ति पदानि तस्याः।
एते च मार्गतरवः कथयन्ति तापमालम्बितोज्झितपरिग्लापितैः प्रवालैः॥ १३॥
५. वर्तमानवस्तुगोचरो विद्यमानविषयम्, यथा—
अशोकतरुरुज्ज्वलस्तबकमालभारी यथा यथा कुरबकस्तनूमतकोरकैरर्चति।
यथा च तिलकद्रुमः सृजति मञ्जरीजालकं तथेह पुरतो वने पूरवधूजनः क्रीडति॥ १४॥