भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 61 to 70 of 488 verses
जाने स्वप्‍नविधौ ममाद्य चुलुकोत्सेक्यं पुरस्तादभूत् प्रत्यूषे परिवेषमण्डलमिव ज्योत्स्‍नासपत्‍नं महः।

अस्यान्तर्नखनिस्तुषीकृतशरच्‍चन्द्रप्रभैरङ्गकै— र्दृष्टा काऽप्यबला बलात्कृतवती सा मन्मथं मन्मथम्॥ ७॥

स्वप्‍नादयः प्रमाणाभासत्वादप्रमाणमिति चेत्,

तत्र, प्रथमानुरागोत्पत्तौ प्रमाणतदाभासयोरविशेषात्।

(१.२ अनुमानानुरागः —६)

लिङ्गदर्शनाल्लिङ्गिप्रतिपत्तिरनुमानम्। तदुक्तम्— (प्रपाभा.)

अनुमेयेन सम्बद्धं प्रसिद्धत्वं/द्धं च तदन्वये।

तदभावे तु यन्नास्ति तल्लिङ्गमनुमापकम्॥ ८॥

विपरीतमतो यत् स्यादेकेन द्वितयेन वा।

विरुद्धासिद्धसन्दिग्धमलिङ्गं काश्‍यपोऽब्रवीत्॥ ९॥

Showing 61 to 70 of 488 verses