णच्चण—सलाहण—णिहेण पासपरिसंठिआ णिउणगोवी।
सरिसगोविआणँ चुंबइ कवोलपडिमाघअं कण्हं॥ ३॥
(नर्तनश्लाघननिभेन पार्श्वपरिसंस्थिता तरुणगोपी।
सदृग्गोपीनां चुम्बति कपोलप्रतिमागतं कृष्णम्॥)
३. बाह्येन्द्रियनिरपेक्षमदृष्टप्रभवमाकस्मिकमननुभूतानुभूतविषयज्ञानं प्रतिभानं ; यथा—
असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः॥ ४॥
४. परोक्षेऽपि प्रत्यक्षविषये प्रमाणाधिगतवस्तुधर्माध्यारोपणमुत्प्रेक्षा; यथा—
अह सा हिअएण हरिं अ दिट्ठा आरपअ विलासं पि।