स च व्यलीकादिजन्मभिरीर्ष्यायितादिभिरुपजायमानो विरुद्ध एव भवति। तत्र— प्रकृत्यर्थो यथा—
सोद्वेगस्य स्खलितवचसो यत्नसंस्तम्भिताश्रोः सावेगस्य श्रमजलभृतो दुर्निमित्तस्मितस्य।
भूयोभूयः कृतकघटितभ्रूलताभङ्गहेतो— र्मानस्यास्या रहसि कथितापह्नुतस्यास्ति नार्घः॥ ३॥
१. मेवादानं=मेवावदातं जोशेरः, राघवः। मूलं तु मूलानुसारि अस्मदुपकल्पितम्। २. ताप=मोह रा.जो.
लीलावती चरणचुम्बितमौलिमग्रे कान्तं विधूय विहितागसमुच्चचाल।
अत्रान्तरे मुखरनूपुरयुग्ममस्याः सौभाग्यगन्धगजडिण्डिमतां जगाम॥ ४॥
कालहरणमित्ययं प्रकृत्यर्थो व्याविद्धमित्ययं चोपसर्गार्थः प्रवासेऽनुषज्यते। तत्र हि देशविप्रकर्षात् तदैवालिङ्गनादीनामनवाप्तिः कालहरणम्।
तच्च कालविप्रकर्षोत्कण्ठादिभिरत्यायतं व्याविद्धमेव भवति। तत्र— प्रकृत्यर्थो यथा—(मेघ. १०८)