तस्य च पारतन्त्र्यं च लज्जाभयान्यतरानिच्छादिभिर्विविधमनेकप्रकारम— निर्वहणमेवादानं१ भवति। तत्र
प्रकृत्यर्थो यथा—(मामा. ४.४)
समानप्रेमाणं जनमसुलभं प्रार्थितवतो विधौ वामारम्भे मम समुचितैषा परिणतिः।
तथाप्यस्मिन् दानप्रवणसमयेऽस्याः प्रविगल— त्प्रभं प्रातश्चन्द्रद्युति वदनमन्तर्दहति माम्॥ १॥
उपसर्गार्थो यथा—(मामा. १.३०)
परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान्।
विवेकप्रध्वंसादुपचितमहामोहगहनो विकारः कोऽप्यन्तर्जडयति च २संतापयति च॥ २॥
ताप x x x तत्र विसंवाद ॰ ॰ नमित्ययं प्रकृत्यर्थो विरुद्धमित्ययं चोपसर्गार्थो माने सङ्गच्छते। तत्र हि मनोभिलषितालिङ्गनादीनां यथोक्तानामनवाप्तिर्विसंवादः।