निर्माल्यं नयनश्रियः कुवलयं, वक्त्रस्य दासः शशी, कान्तिः प्रावरणं तनोर्मधुमुचो यस्याश्च वाचः किल।
विंशत्या रचिताञ्जलिः करतलैस्त्वां याचते रावण— स्त्वां द्रष्टुं जनकात्मजां हृदय! हे नेत्राणि मित्रीकुरु॥ १७॥
२. वैधर्म्योपमानं यथा—(विक्रमो. २.३)
आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः।
उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः॥ १८॥
३. मुद्रोपमानं यथा—(किराता. १०.७)
सचकितमिव विस्मयाकुलाभिः शुचिसिकतास्वतिमानुषाणि ताभिः।
क्षितिषु ददृशिरे पदानि जिष्णोरुपहितकेतुरथाङ्गलाञ्छनानि॥ १९॥
४. शिल्पोपमानं यथा—(रत्ना. २.९)
लीलावधूतपद्मा प्रथयन्ती पक्षपातमधिकं नः।