मानसमुपैति केयं चित्रगता राजहंसीव॥ २०॥
५. संज्ञोपमानं यथा—(वल. ६१७)
दट्ठूण तं जुवाणं परिअणमज्झंमि पोढमहिलाए।
पप्फुल्लदलं कमलं करेण मुउलावियं किस्स॥ २१॥
(दृष्ट्वा तं युवानं परिजनमध्ये प्रौढमहिलया।
प्रफुल्लदलं कमलं करेण मुकुलायितं कस्मात्॥)
वइविवरणिग्गअदलो एरंडो साहइ व्व तरुणाणं।
एत्थ घरे हलिअवहू एद्दहमेत्तत्थणी वसइ॥ २२॥
(वृतिविवरनिर्गतदल एरण्डः साधयतीव तरुणानाम्।