स्वप्नपीतेनेव पानीयेन तृष्णैव न मृष्टा॥)
घडिऊरुसंपुडं णववहूए जहणं वरो पुलोएइ।
संदट्ठ—णव—कपाडं दारं पिव सग्ग—णअरस्स॥ १७॥
(घटितोरुसंपुटं नववध्वा जघनं वरः प्रलोकयति।
सन्दष्टनवकवाटं द्वारमिव स्वर्गनगरस्य॥)
११. स्पृहा यथा—(गास. ६.७५)
कस्स करो बहुपुण्णप्फलेक्कतरुणो तुहं विसंमिहइ।
थणपरिणाहे वंमह—णिहाण—कलसे व्व पारोहो॥ १८॥
(कस्य करो बहुपुण्यफलैकतरोस्तव विश्रमिष्यति।