अतः स्वकीयैव नायिका मोक्षशृङ्गाराङ्गम्।
धीरप्रशान्तश्च नायक इति। तस्यैव मोक्षे तदधिगमे योग्यताभिमानात्। स गुणप्रकृतिप्रवृत्तिपरिग्रहभेदाद् धीरोदात्तवद् अष्टप्रकारः तत्र गुणतः समस्तजात्यादि— गुणसम्पद्योगादुत्तमः, प्रवृत्तेरनुकूलो दक्षिणश्च, परिग्रहादसाधारणः साधारणश्च। तदेतद् वृत्तिः प्रवृत्तिरिति, नायिकानायकभेदः। इदमेतल्लक्षणोदाहरणैः पूर्वमेव२ निर्णीतम्॥
१. 'चित्तधर्म' इति शेषः। द्र. पृ. १००१। २. पृ. ८६१–८६३।
अथेदानीं नायकव्यपदेशहेतुर्धैर्यं विचार्यते। तद् धीरप्रशान्तस्य शान्तं भवति, यत्प्रभावात् सुखदुःखयोर्माध्यस्थ्यं, व्यसनोत्सवयोरविशेषः, इन्द्रियार्थेष्वनास्था, विलासेषूपहासः, शरीरादावनात्मबुद्धिः, प्रशंसासु नोत्कर्षः, निन्दास्वपि न कोपः, भव्यप्राणिषु प्रमोदः, सर्वभूतेष्वनुकम्पा, साधुजनेषु मैत्री, अधार्मिकेषूपेक्षा, सदाचारेष्वादरः, सर्वकर्मसु फलानीप्सा, रागादिभिर्न धर्मबाधा, कर्मातिशयैरविस्मयः, जात्यादिभिर्नाभिमान इति। तत्र—
१. सुखदुःखयोर्माध्यस्थं यथा—(किराता. ११.२६)
कृतवानन्यदेहेषु कर्ता च विधुरं मनः।
अप्रियैरिव संयोगो विप्रयोगः प्रियैः सह॥ १२॥
२. व्यसनोत्सवयोरविशेषो यथा—(किराता. ११.२२)