या गम्याः सत्सहायानां यासु खेदो भयं यतः।
तासां कियन्न दुःखाय विपदामिव सम्पदाम्॥ १३॥
३. इन्द्रियार्थेष्वनास्था यथा—
एकैकशो विनिघ्नन्ति विषया विषसन्निभाः।
क्षेमी तु स कथं नु स्याद् यः समं पञ्च सेवते॥ १४॥
एतत् तद् वक्त्रमत्र क्व तदधरमधु ? क्वायतास्ते कटाक्षाः ? क्वालापाः कोमलास्ते ? क्व स मदनधनुर्भङ्गुरो भ्रूविलासः ?।
इत्थं खट्वाङ्गकोटौ प्रकटितदशनं मञ्जुगुञ्जे समीरं रागान्धानामिवोच्चैरुपहसति महामोहजालं कपालम्॥ १५॥
५. शरीरादावनात्मबुद्धिर्यथा—
यदा शरीरस्य शरीरिणश्च पृथक्त्वमेकान्तत एव भावि।