मम तु यदियं याता लोके विलोकनचन्द्रिका नयनविषयं जन्मन्येकं स एव महोत्सवः॥ १२॥
२. शोकादिभिर्वैक्लव्यं यथा—(रघु. ८.४३)
विललाप स बाष्पगद्गदं सहजामप्यवधूय धीरताम्।
अभितप्तमयोऽपि मार्दवं भजते, कैव कथा शरीरिषु?॥ १३॥
तरुणतमालनीलबहुलोन्नमदम्बुधराः शिशिरसमीरणावधुतनूतनवारिकणाः।
कथमवलोकयेयमधुना हरिमतीर्मदकलनीलकण्ठकलहैर्मुखराः हरितः॥ १४॥
३. व्यसनादिभिर्दीनत्वं, यथा—(मेघ. ६)
जातं वंशो भुवनविदिते पुष्कलावर्तकानां जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः।
तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर्गतोऽहं याञ्चा मोघा वरमधिगुणे; नाधमे लब्धकामा॥ १५॥