सातिरेकमदकारणं रहस्तेन दत्तमभिलेषुरङ्गनाः।
ताभिरप्युपहितं मुखासवं सोऽपिबद् वकुलतुल्यदोहदः॥ १९॥
इति विस्मृतान्यकरणीयमात्मनः सचिवावलम्बितधुरं धराधिपम्।
परिवृद्धरागमनुबन्धसेवया मृगया जहार चतुरेव कामिनी॥ २०॥
६. विषयेष्वत्यासङ्गो यथा—(रघु. १९.६)
इन्द्रियार्थपरिशून्यमक्षमः सोढुमेकमपि न क्षणान्तरम्।
अन्तरेव विहरन् दिवानिशं न व्यपैक्षत समुत्सुकाः प्रजाः॥ २१॥
अङ्कमङ्कपरिवर्तनोचिते तस्य निन्यतुरशून्यतामुभे।