अपशकुनाङ्गारकवारविष्टिदिवसाः सुखयन्ति॥)
८. अनर्थजनैः संसर्गो यथा—(राच. ३.२८)
न सूरयो न स्थविरा न धीराः पुरस्स्थिताः प्राश्निकतां भजन्ते।
स तिष्ठते संसदि संशयानः पुष्पोपविष्टासु विलासिनीषु॥ २५॥
न नटा न विटा न गायना न च सभ्येतरवादचुञ्चवः।१
नृप! वीक्षितुमत्र के वयं स्तनभारानमिता न योषितः॥ २६॥
९ . साहसेषु प्रवृत्तिर्यथा—(मामा. ५.५)
कुवलयदलश्यामोऽप्यङ्गं दधत् परिधूसरं ललितविकटन्यासः श्रीमान् मृगाङ्कनिभाननः।
हरति विनयं वामो यस्य प्रकाशितसाहसः प्रविगलदसृक्पङ्कः पाणिर्ललन्नरजाङ्गलः॥ २७॥