न हेतुवादान्मोहाद् वा विद्वान् स्वं धर्ममुत्सृजेत्॥ २५॥
१५. कर्मातिशयैरविस्मयो यथा—(वैराग्यश॰ ६७) —
भुक्ताः श्रियः सकलकामदुघास्ततः किं ? सन्तर्पिताः प्रणयिनः स्वधनैस्ततः किम् ?।
दत्तं पदं शिरसि विद्विषतां ततः किं ? कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ?॥ २६॥
१६. जात्यादिभिर्नाभिमानः; यथा—
कुलाज्ज्ञानात् तथैश्वर्यान्मदः सञ्जायते नृणाम्।
एतैरेव विनीतानां दमः समुपजायते॥ २७॥
धैर्यप्रशमहेतवश्चाष्टौ विशेषणुणाः — 'क्षमा, वशित्वं, सन्तोषः, प्रशमः, शौचम्, आर्जवं, वेशारद्यं, वैराग्यमि'ति।
१. अकोपनत्वं क्षमा ; यथा—
अतथ्येनोच्यमानस्य कः कोपो यन्न तत् तथा।