यथा श्रुतं वेदविदां वर! जनोऽयमुच्चैः—पदलङ्घनोत्सुकः।
तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते॥ २७॥
२१. आस्था यथा—(किराता. ९.३४)
सद्मनां विरचनाहितशोभैरागतप्रियकथैरपि दूत्यम्।
सन्निकृष्टरतिभिः सुरदारैर्भूषितैरपि विभूषणमीष्टे॥ २८॥
२२. अभिनिवेशो यथा—(गास. ६.३०)
लोओ जूरइ जूरउ वअणिज्जं होइ होउ तं णाम।
एहि णिमज्जसु पासे पुप्फवइ! ण एइ मे णिद्दा॥ २९॥
(लोकः खिद्यति खिद्यतु वचनीयं भवति भवतु तन्नाम।
एहि निषीद पार्श्वे पुष्पवति! नैति मे निद्रा॥)